shrI digvijaya-mUla-sItAramo vijayate

mangaLAcharaNam

वेदव्यास गुणावास श्रुतिस्तोमविकासकः
पञ्चरूप नमामि त्वां पूर्णप्रज्ञकरार्चित।

अभ्रमं भङ्गरहितं अजडं विमलं सदा
आनन्दतीर्थमतुलं भजे तापत्रयापहम्।

नौमिन्यायसुधादिकृज्जयमुनीन् श्रीपादराट् सन्मणीन्

व्यासार्यान् विविधागमाब्धिविहरान् श्रीवादिराजानपि ।

वन्दॆ हंसवरान् रघूत्तमगुरून् वैदग्ध्यवारां निधीन्

श्रीसत्यव्रतराघवेन्द्रमुनिपान् सद्बोधसद्ध्यानपान् ।।

सत्याभिज्ञकराब्जोत्थान् पञ्चाशद्वर्षपूजकान्
सत्यप्रमोदतीर्थार्यान्नौमि न्यायसुधारतान्॥

श्री गुरुभ्यो नमः हरिः ॐ

 

<<Prev
Next >>